श्रीरामसर्वस्व स्तोत्रम्

||अथ श्रीरामसर्वस्वस्तोत्रं प्रारभ्यते ||

रामो माता मत्पितारामचन्द्रो भ्राता रामो मत्सखा रामचन्द्रः ।

रामः स्वामी राम एवार्थदाता रामादन्यं नैव जाने न जाने ॥ १॥

रामः सेव्यो वन्दनीयोऽपि रामो रामोनित्यं मादृशैश्चितनीयः ।

रामो ज्ञानं ध्यानगम्योऽपि रामो रामादन्यं नैव जाने न जाने ॥ २॥

रामो भुक्तिर्मुक्तिदाता च रामो रामोऽस्माकं राजते राजराजः ।

लोकेऽस्माभिर्लोक्यते रामचन्द्रो रामादन्यं नैव जाने न जाने ॥ ३॥

रामोधर्मः कर्मरामो मदीयं रामोमह्यं कर्मसिद्धिप्रदाता ।

रामोऽजस्रः कर्मसिद्धिस्वरूपी रामादन्यं नैव जाने न जाने ॥ ४॥

रामोऽस्माभिः पूजनीयोनितान्तं रामोऽस्माभिः प्रत्यहं कीर्तनीयः ।

रामोऽस्माभिर्गोपनीयो गुहान्ते रामदन्यं नैव जाने न जाने ॥ ५॥

रामोऽस्माकं दुःखहर्ता त्रिलोक्यां रामोऽस्माकं कर्मकर्ता सदैव ।

रामोऽस्माकं कर्मभूतो विभाति रामादन्यं नैव जाने न जाने ॥ ६॥

रामोज्ञातिः ख्यातिरप्येव रामो रामः कीर्तिः पूर्तिरप्येव रामः ।

सर्वस्वं मे रामचन्द्रोऽवनीन्द्रो रामादन्यं नैव जाने न जाने ॥ ७॥

ग्रामेरण्ये जागरे स्वप्नकाले मार्गे दुर्गे गच्छतोऽगच्छतो मे ।

शश्वल्लोके रक्षकस्त्वेव रामो रामादन्यं नैव जाने न जाने ॥ ८॥

ये वै त्रिसन्ध्यं प्रपठन्ति नित्यं श्रीरामसर्वस्वमनन्य भक्त्या ।

श्रीरामरामेण कृतं कृतार्थास्तेऽप्यच्युतं रामपदं प्रयान्ति ॥ ९॥

इति श्रीरामसर्वस्वस्तोत्रं सम्पूर्णम् ॥

Gaurav Sharma, Haridwar

Leave a Reply

Your email address will not be published. Required fields are marked *